|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.93. अध्यायः 093
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति वामदेवसुमनस्संवादानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
वामदेव उवाच। 12-93-0x(5584)(68418)
यत्राधर्मं प्रणयते दुर्बले बलवत्तरः।
तां वृत्तिमुपजीवन्ति ये भवन्ति तदन्वयाः॥ 12-93-1(68419)
राजानमनुवर्तन्ते तं पापाभिप्रवर्तकम्।
अविनीतमनुष्यं तत्क्षिप्रं राष्ट्रं विनश्यति॥ 12-93-2(68420)
यद्वॄत्तमुपजीवन्ति प्रकृतिस्थस्य मानवाः।
तदेव विषमस्थस्य स्वजनोऽपि न मृष्यते॥ 12-93-3(68421)
साहसप्रवृत्ते र्यत्र किंचिदुल्वणमाचरेत्।
अशास्त्रलक्षणो राजा क्षिप्रमेव विनश्यति॥ 12-93-4(68422)
सद्वॄत्ताचरितां वृत्तिं क्षत्रियो नानुवर्तते।
जितानामजितानां च क्षत्रधर्मादपैति सः॥ 12-93-5(68423)
द्विषन्तं कृतकल्याणं गृहीत्वा नृपतिं रणे।
यो न नयते द्वेषात्क्षत्रधर्मादपैति सः॥ 12-93-6(68424)
शक्तः आत्सुसुखो राजा कुर्यात्तारणमापदि।
प्रियो अति भूतानां न च विभ्रश्यते श्रियः॥ 12-93-7(68425)
अप्रियं यस्य कुर्वीत भूयस्तस्य प्रियं चरेत्।
अचिरेण प्रियः स स्याद्योऽप्रिये प्रियमाचरेत्॥ 12-93-8(68426)
मृषावादं परिहरेत्कुर्यात्प्रियमयाचितः।
न कामान्न च संरम्भान्न द्वेषाद्धर्ममुत्सृजेत्॥ 12-93-9(68427)
`अमाययैव वर्तेत न च सत्यं त्यजेद्बुधः।
दमं धर्मं च शीलं च क्षत्रधर्मं प्रजाहितम्॥' 12-93-10(68428)
नापत्रपेत प्रश्नेषु नाभिभाविगिरं सृजेत्।
न त्वरेत न चासूयेत्तथा संगृह्यते परः॥ 12-93-11(68429)
प्रिये नातिभृशं हृष्येदप्रिये न च संज्वरेत्।
न तप्येदर्थकृच्छ्रेषु प्रजाहितमनुस्मरन्॥ 12-93-12(68430)
यः प्रियं कुरुते नित्यं गुणतो वसुधाधिपः।
तस्य कर्माणि सिद्ध्यन्ति न च संत्यज्यते श्रिया॥ 12-93-13(68431)
निवृत्तं प्रतिकूलेभ्यो वर्तमानमनुप्रिये।
भक्तं भजेत नृपतिस्तद्वै वृत्तं सतामिह॥ 12-93-14(68432)
अप्रकीर्णेन्द्रियग्राममत्यन्तानुगतं शुचिम्।
शक्तं चैवानुरक्तं च युञ्ज्यान्महति कर्मणि॥ 12-93-15(68433)
`श्रेयसो लक्षणं चैतद्विक्रमो यत्र दृश्यते।
कीर्तिप्रधानो यश्च स्यात्समये यश्च तिष्ठति।
समर्थान्पूजयेद्यश्च न च स्पर्धेत यश्चतैः॥ 12-93-16(68434)
एवमेतैर्गुणैर्युक्तो योऽनुरज्यति भूमिपम्।
भर्तुरर्थेष्वप्रमत्तं नियुञ्ज्यादर्थकर्मणि॥ 12-93-17(68435)
मूढमैन्द्रियकं लुब्धमनार्यचरितं शठम्।
अनतीतोपधं हिंस्रं दुर्बुद्धिमबहुश्रुतम्॥ 12-93-18(68436)
त्यक्तोपात्तं मद्यरतं द्यूतस्त्रीमृगयापरम्।
कार्ये महति युञ्जानो हीयते नृपतिः श्रिया॥ 12-93-19(68437)
रक्षितात्मा च यो राजा रक्ष्यान्यश्चानुरक्षति।
प्रजाश्च तस्य वर्धन्ते सुखं च महदश्नुते॥ 12-93-20(68438)
ये केचिद्भूमिपतयः सर्वांस्तानन्ववेक्षयेत्।
सुहृद्भिरनभिख्यातैस्तेन राजा न रिष्यते॥ 12-93-21(68439)
अपकृत्य बलस्थस्व दूरस्थोऽस्मीति नाश्वसेत्।
श्येनाभिपतनैरेते निपतन्ति प्रमाद्यतः॥ 12-93-22(68440)
दृढमूलस्त्वदुष्टात्मा विदित्वा बलमात्मनः।
अबलानभियुञ्जीत न तु ये बलवत्तराः॥ 12-93-23(68441)
विक्रमेण महीं लब्ध्वा प्रजा धर्मेण पालयेत्।
आहवे निधनं कुर्याद्राजा धर्मपरायणः॥ 12-93-24(68442)
मरणान्तमिदं सर्वं नेह किंचिदनामयम्।
तस्माद्धर्मे स्थितो राजा प्रजा धर्मेम पालयेत्॥ 12-93-25(68443)
रक्षाधिकरणं युद्धं तथा धर्मानुशासनम्।
मन्त्रचिन्ता सुखं काले पञ्चभिर्वर्धते मही॥ 12-93-26(68444)
एतानि यस्य गुप्तानि स राजा राजसत्तम।
सततं वर्तमानोऽत्र राजा भुङ्क्ते महीमिमाम्॥ 12-93-27(68445)
नैतान्येकेन शक्यानि सातत्येनानुवीक्षितुम्।
एतेष्वाप्तान्प्रतिष्ठाप्य राजा भुङ्क्ते चिरं महीम्॥ 12-93-28(68446)
दातारं संविभक्तारं मार्दवोपगतं शुचिम्।
असंत्यक्तमनुष्यं च तं जनाः कुर्वते नृपम्॥ 12-93-29(68447)
यस्तु नैःश्रेयसं श्रुत्वा ज्ञानं तत्प्रतिपद्यते।
आत्मनो मतमुत्सृज्य तं लोकोऽनुविधीयते॥ 12-93-30(68448)
योऽर्थकामस्य वचनं प्रातिकूल्यान्न मृष्यते।
शृणोति प्रतिकूलानि सर्वदा विमना इव॥ 12-93-31(68449)
अग्राम्यचरितां वृत्तिं यो न सेवेत नित्यदा।
जितानामजितानां च क्षत्रधर्मादपैति सः॥ 12-93-32(68450)
[निगृहीतादमात्याच्च स्त्रीभ्यश्चैव विशेषतः।
पर्वताद्विषमाद्दुर्गाद्धस्तिनोऽश्वात्सरीसृपात्।
एतेभ्यो नित्ययुक्तः सन्रक्षेदात्मानमेव तु॥] 12-93-33(68451)
मुख्यानमात्यान्यो हित्वा निहीनान्कुरुते प्रियान्।
स वै व्यसनमासाद्य साधुमार्गं न विन्दति॥ 12-93-34(68452)
यः कल्याणगुणाञ्ज्ञातीन्प्रद्वेषान्नो बुभूषति।
अदृढात्मा दृढक्रोधः नास्यार्थो वसतेऽन्तिके॥ 12-93-35(68453)
अथ यो गुणसंपन्नान्हृदयस्य प्रियानपि।
प्रियेण कुरुते वश्यांश्चिरं यशसि तिष्ठति॥ 12-93-36(68454)
नाकाले प्रणयेदर्थान्नाप्रिये जातु संज्वरेत्।
प्रिये नातिभृशं तुष्येद्युञ्जीतारोग्यकर्मणि॥ 12-93-37(68455)
के वाऽनुरक्ता राजानः के भयात्समुपाश्रिताः।
मध्यस्थदोषाः के चैषामिति नित्यं विचिन्तयेत्॥ 12-93-38(68456)
न जातु बलवान्भूत्वा दुर्बले विश्वसेत्क्वचित्।
भारुण्डसदृशा ह्येते निपतन्ति प्रमाद्यतः॥ 12-93-39(68457)
अपि सर्वगुणैर्युक्तं भर्तारं प्रियवादिन।
अभिद्रुह्यति पापात्मा न तस्माद्विश्वसेज्जनान्॥ 12-93-40(68458)
एतद्राजोपनिषदं ययातिः स्माह नाहुषः।
मनुष्यविषये युक्तो हन्ति शत्रून्सवासवान्॥ ॥ 12-93-41(68459)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि त्रिनवतितमोऽध्यायः॥ 93॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-93-1 यत्र राष्ट्रे। प्रणयते आरोपयति॥ 12-93-2 अनुवर्तन्तेऽन्ये॥ 12-93-3 प्रकृतिः स्वधर्मः। विषमः कुमार्गः॥ 12-93-5 जित्तानामापन्नानाम्। अजितानां स्वस्थानाम्॥ 12-93-6 कृतकल्याणं प्रागुपकारं कृतवन्तम्॥ 12-93-12 प्रियं भृत्यादीनाम्॥ 12-93-17 अनुरज्यत्यनुरञ्जयति। एवमेव गुणैर्युक्तो यो न रक्षति भूमिपम्। भर्तुरर्थेष्वसूयन्तं न तं युञ्जीत कर्मणि इति ड.थ.पाठः॥ 12-93-21 सुहृद्भिश्चारैः। अनभिख्यातैः स्वेषां परेषां चाविदितैः॥ 12-93-26 रक्षाधिकरणं दुर्गादि। सुखं सुखप्रदानम्॥ 12-93-27 गुप्तानि मुरक्षितानि॥ 12-93-32 अग्राम्यैर्बुद्धिमद्भिः। वृत्तिं लाभोपायम्॥ 12-93-41 राजोपनिषदं राज्ञां रहस्यविद्याम्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|